महादेवाष्टकम्...
ॐ नमः शिवाय ॐ
महादेवाष्टकम् |
---|
मोक्षलक्ष्मीगृहद्वारकवोटोद्घाटनध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥१॥
वैवस्वतमहाराजमौलिसंगकुट्नध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥२॥
कैलासनगरद्वारमहाघण्टारवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥३॥
महापातकमत्तेभत्रासकण्ठोरध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥४॥
महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥५॥
मुक्त्यंगनाकरस्पर्शविवाहपटहध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥६॥
मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥७॥
पापाटवीप्रविष्टाग्निज्वालाचटचटध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥८॥
महादेवस्य वाग्वाल्ली चतुरक्षरपल्लवा ।
भक्तिसिध्धा भवत्येषा चतुर्वर्गफलप्रदा ॥९॥
ॐ नमः पार्वतीपतये
हर हर महादेव.......
Comments
Post a Comment