श्री महालक्ष्म्यष्टकम् स्तोत्रम्...
॥ श्री महालक्ष्म्यष्टकम् ॥
अथ श्री इन्द्रकृत श्री महालक्ष्मी अष्टक
श्री गणेशाय नमः
नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते ।
शंख चक्र गदा हस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारूढे कोलासुर भयंकरी ।
सर्वपाप हरे देवी महालक्ष्मि नमोऽस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुःख भयंकरि ।
सर्वदुःख हरे देवी महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मन्त्रपूते सदा देवी महालक्ष्मि नमोऽस्तुते ॥ ४ ॥
आध्यन्तरहिता देवी आधिशक्ति महेश्वरी ।
योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
स्थूलसूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महापाप हरे देवी महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रह्म स्वरूपिणी ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ७ ॥
श्वेताम्बरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककालं पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुभयापहम् ।
महालक्ष्मी भवेत् तस्य प्रसन्ना वरदा शुभा ॥ ११ ॥
॥ इति श्री इन्द्रकृतं श्रीमहालक्ष्म्यष्टकं संपूर्णम् ॥
Related Pages: |
Comments
Post a Comment