श्री बालमुकुन्दाष्टकम् स्तोत्रम्...
।। श्री बालमुकुन्दाष्टकम्: ।।
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मारामि ॥१॥
संहृत्य लोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मारामि ॥२॥
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम् ।
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मारामि ॥३॥
लंबालकं लंवितहारयष्टिं
शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ।
बिंबाधरं चारुविशालनेत्रं
बालं मुकुन्दं मनसा स्मारामि ॥४॥
शिक्ये निधायाद्य पयोदधीनि
बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मारामि ॥५॥
कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गे नटनप्रियन्तम् ।
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मारामि ॥६॥
उलुखले बद्धमुदारशौर्यं
उत्तुङ्गयुग्मार्जुनमङ्गलीलम् ।
उत्फुल्लपद्मायतचारुनेत्रं
बालं मुकुन्दं मनसा स्मारामि ॥७॥
आलोक्य मातुर्मुखमादेण
स्तन्यं पिबन्तं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मारामि ॥८॥
Comments
Post a Comment