Skip to main content

Maa Tripura Bhairavi Sahasranama Stotram\श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम्

श्री त्रिपुर भैरवी सहस्रनाम स्तोत्रम् | Maa Tripura Bhairavi Sahasranama Stotram

श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रम्!...

यह स्तोत्र परम पवित्र और सबका कल्याण करने वाला माना गया है। इसे श्रद्धा और विश्वास से पढ़ने मात्र से भक्त के जीवन में सुख, शांति और सिद्धि का संचार होता है। कहा गया है कि जो व्यक्ति नित्य इस स्तोत्र का स्मरण करता है, उसकी सभी मनोकामनाएँ पूर्ण होती हैं।

प्रातःकाल स्नान कर माँ भैरवी या अपने आराध्य देव का ध्यान करें और इस स्तोत्र का भक्तिभाव से पाठ करें — इससे मन में भक्ति, बल और सकारात्मक ऊर्जा का संचार होता है।

|| श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम् ||

अथ श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम्

महाकालभैरव उवाच

अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् ।
यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥
सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् ।
सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥
नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् ।
यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३ ॥
क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि ।
नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् ।
सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥
अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः।
पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता ।
सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥
ॐ त्रिपुरा परमेशानी योगसिद्धिनिवासिनी ।
सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ॥
सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा ।
योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ॥
योगिध्येया योगमयी योगयोगनिवासिनी ।
हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ॥
कालमाता कालरात्रिः काली कामलवासिनी ।
कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥
कटुः कपटकेशा च कपटा कुलटाकृतिः ।
कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ॥
घोराकारा घोरतरा धर्माधर्मप्रदा मतिः ।
घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ॥
सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः ।
अतिसत्या सत्यवती सत्यसङ्केतवासिनी ॥
क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी ।
भ्रमरूपा भयहरा भयदा भयनाशिनी ॥
श्मशानवासिनी देवी श्मशानालयवासिनी ।
शवासना शवाहारा शवदेहा शिवाशिवा ॥
कण्ठदेशशवाहारा शवकङ्कणधारिणी ।
दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ॥
सत्यदेहा सत्यहारा सत्यवादिनिवासिनी ।
सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ॥
असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी ।
मायामतिर्महामाया महामखविलासिनी ॥
गलद्रुधिरधारा च मुखद्वयनिवासिनी ।
सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ॥
असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी ।
सदासत्या महासत्या मांसपाशा सुमांसका ॥
मांसाहारा मांसधरा मांसाशी मांसभक्षका ।
रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ॥
रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी ।
रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ॥
स्वयंभूकुसुमस्था च स्वयंभूकुसुमोत्सुका ।
स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना ॥
स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा ।
स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका ॥
कुण्डगोलविलासी च कुण्डगोलसदामतिः ।
कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ॥
शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका ।
शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ॥
रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका ।
रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ॥
मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया ।
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥
केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी ।
क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ॥
चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी ।
निम्ननाभी भीतिहरा भयदा भयहारिका ॥
भयप्रदा भयभीता अभीमा भीमनादिनी ।
सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ॥
सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः ।
रक्तारञ्जितनासा च सुनासा निम्ननासिका ॥
खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा ।
कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ॥
अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी ।
चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ॥
चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः ।
जलदा जयदा योगा जगदानन्दकारिणी ॥
जगद्वन्द्या जगन्माता जगती जगतक्षमा ।
जन्या जयजनेत्री च जयिनी जयदा तथा ॥
जननी च जगद्धात्री जयाख्या जयरूपिणी ।
जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ॥
जयिनी जयमाता च जया च विजया तथा ।
खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥
खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा ।
खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ॥
खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी ।
शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ॥
बलिनी भिन्दिपाली च पाशी च अङ्कुशी शरी ।
धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ॥
मुसली हलरूपा च तूणीरगणवासिनी ।
तूणालया तूणहरा तूणसम्भवरूपिणी ॥
सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा ।
नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ॥
लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी ।
लाभहारा लाभकरा लाभिनी लाभरूपिणी ॥
धरित्री धनदा धान्या धन्यरूपा धरा धनुः ।
धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ॥
धनहा धनलाभा च धनलभ्या महाधनुः ।
अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ॥
गगणा गणसेव्या च गणाङ्गावागवल्लभा ।
गणदा गणहा गम्या गमनागमसुन्दरी ॥
गम्यदा गणनाशी च गदहा गदवर्द्धिनी ।
स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ॥
दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी ।
प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ॥
प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता ।
सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ॥
चञ्चला चपला चोला चपलाङ्गनिवासिनी ।
गौरी काली तथा छिन्ना माया मान्या हरप्रिया ॥
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।
त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ॥
भैरवी भैरवस्था च भैरवस्य प्रिया तनुः ।
भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ॥
कालदा कालरात्रिश्च कामा कात्यायनी क्रिया ।
क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ॥
क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः ।
प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ॥
परमः पुरुषश्चैव माया नारायणी मतिः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा ।
भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ॥
राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा ।
हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी ॥
केकरी कोटराक्षी च निर्मांसालूकमांसिका ।
ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ॥
चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥
शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ॥
सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः ।
कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ॥
सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी ।
उग्रमुखी च सुमुखी काकास्या विकटानना ॥
कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः ।
नानामुखी च नानास्या नानारूपप्रधारिणी ॥
विश्वार्च्या विश्वमाता च विश्वाख्या विश्वभाविनी ।
सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ॥
सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना ।
तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ॥
सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा ।
युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ॥
वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा ।
वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ॥
वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी ।
वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ॥
धूम्रार्चिता चोज्ज्वलिनी तथा च विस्फुलिङ्गिनी ।
शूलिनी च सुरूपा च कपिला हव्यवाहिनी ॥
नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी ।
ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ॥
परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी ।
पुण्यदा पुण्यनाम्नी च पुण्यगंधा प्रियातनुः ॥
पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका ।
पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ॥
पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा ।
पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ॥
पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी ।
पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ॥
सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा ।
पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ॥
पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी ।
नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ॥
लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी ।
नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ॥
महामाल्या महामान्या महती मातृपूजिता ।
महामहाकनीया च महाकालेश्वरी महा ॥
महास्या वन्दनीया च महाशब्दनिवासिनी ।
महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी ॥
लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी ।
लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ॥
अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी ।
लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ॥
चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा ।
वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ॥
रमा रामा सुबाला च रमणीयस्वभाविनी ।
सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ॥
कामप्रिया कामकरा कामाङ्गी रमणी रतिः ।
रतिप्रिया रति रती रतिसेव्या रतिप्रिया ॥
सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी ।
सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ॥
लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी ।
लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ॥
लोभप्रिया महालोभा लोभनिन्दकनिन्दका ।
लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी ॥
गंधाङ्गी गंधपुष्टा च सुगंधा प्रेमगंधिका ।
दुर्गंधा पूतिगंधा च विगंधा अतिगंधिका ॥
पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी ।
पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ॥
रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा ।
रक्तोत्पलसुगंधा च रक्तोत्पलनिवासिनी ॥
रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा ।
रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ॥
वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी ।
विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ॥
नारायणस्य देहस्था नारायणमनोहरा ।
नारायणस्वरूपा च नारायणमनःस्थिता ॥
नारायणाङ्गसम्भूता नारायणप्रियातनुः ।
नारी नारायणीगण्या नारायणगृहप्रिया ॥
हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा ।
संहारी हरदेहस्था हरपूजनतत्परा ॥
हरदेहसमुद्भूता हराङ्गवासिनीकुहूः ।
हरपूजकपूज्या च हरवन्दकतत्परा ॥
हरदेहसमुत्पन्ना हरक्रीडासदागतिः ।
सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ॥
निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी ।
दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ॥
प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा ।
प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ॥
डाकिनी योगिनी कालरात्रिः कालप्रिया सदा ।
कालरात्रिहरा काला कृष्णदेहा महातनुः ॥
कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् ।
नानादेहधरा धन्या षट्चक्रक्रमवासिनी ॥
मूलाधारनिवासी च मूलाधारस्थिता सदा ।
वायुरूपा महारूपा वायुमार्गनिवासिनी ॥
वायुयुक्ता वायुकरा वायुपूरकपूरका ।
वायुरूपधरा देवी सुषुम्नामार्गगामिनी ॥
देहस्था देहरूपा च देहध्येया सुदेहिका ।
नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ॥
इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी ।
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ॥
अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी ।
उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ॥
महाप्रलययुक्ता च सृष्टिसंहारकारिणी ।
स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ॥
हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा ।
हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ॥
सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा ।
यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ॥
अयोनिजा सती सत्या असती कुटिलातनुः ।
अहल्या गौतमी गम्या विदेहा देहनाशिनी ॥
गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी ।
पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ॥
षष्ठी च नवमी चैव अष्टमी दशमी तथा ।
एकादशी द्वादशी च द्वाररूपीभयप्रदा ॥
सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी ।
कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ॥
विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा ।
नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ॥
आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी ।
गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ॥
दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका ।
तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ॥
वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका ।
प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ॥
जया च विजया चैव महिषासुरघातिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥
निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी ।
काशी काशीनिवासी च मधुरा पार्वती परा ॥
अपर्णा चण्डिका देवी मृडानी चाम्बिका कला ।
शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ॥
रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् ।
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ॥
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥
महापातककोट्यस्तु तथा चैवोपपातकाः ।
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥
सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि ।
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥
राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे ।
प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥
वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले ।
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥
अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् ।
सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥
अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः ।
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ।
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥
वशीकरणमत्रैव जायन्ते सर्वसिद्धयः ।
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥
पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् ।
वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ।
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ।
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥
स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा ।
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥
शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् ।
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥
शून्यागारे च देवेशि लिखेद्यत्नेन साधकः ।
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥
मीनराशौ गुरुगते लिखेद्यत्नेन साधकः ।
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥
सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः ।
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥
लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः ।
कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥
पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः ।
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥
अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः ।
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् ।
न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥
सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः ।
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥
स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् ।
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥
ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा ।
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥
मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना ।
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥
सदा चानेन विधिना तथा मासत्रयेण च ।
कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥
दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् ।
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥
सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः ।
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥
एकादशे राजवश्यो द्वादशे तु पुरन्दरः ।
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥
समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः ।
स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥
आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः ।
पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥
शङ्का न विद्यते तत्र न च मायादिदूषणम् ।
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ।
किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥
॥ इति श्रीविश्वसारे महाभैरवविरचितं श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥
संबंधित पृष्ठ:
  1. श्री लक्ष्मी सहस्त्रनाम
  2. श्री पार्वती चालीसा
  3. महालक्ष्मी चतुर्विंशति नाम स्तोत्रम्
  4. श्री सौभाग्यधूमावतीकल्पोक्त धूमावतीकवचम्
  5. सरस्वती के 1008 नाम
  6. चिन्तामणि षट्पदी स्तोत्र
  7. गणपतितालम्
  8. श्री कालभैरव अष्टकम्
  9. अंगना पधारो महारानी मोरी शारदा भवानी देवी भजन-
  10. इंद्राक्षी स्तोत्रम्
  11. चामुण्डा देवी की चालीसा

Comments

Popular posts from this blog

Shri Shiv-stuti - नंदी की सवारी नाग अंगीकार धारी।

श्री शिव स्तुति | सरल और प्रभावी स्तुति का पाठ भोले शिव शंकर जी की स्तुति... ॐ नमः शिवाय | ॐ नमः शिवाय | ॐ नमः शिवाय | ॐ नमः शिवाय | ॐ नमः शिवाय भगवान शिव स्तुति : भगवान भोलेनाथ भक्तों की प्रार्थना से बहुत जल्द ही प्रसन्न हो जाते हैं। इसी कारण उन्हें 'आशुतोष' भी कहा जाता है। सनातन धर्म में सोमवार का दिन को भगवान शिव को समर्पित है। इसी कारण सोमवार को शिव का महाभिषेक के साथ साथ शिव की उपासना के लिए व्रत भी रखे जाते हैं। अपने परिवार के लिए सुख समृद्धि पाना के लिए सोमवार के दिन शिव स्तुति का जाप करना आपके लिए लाभकारी होगा और स्तुति का सच्चे मन से करने पर भोले भंडारी खुश होकर आशीर्वाद देते है। ॥ शिव स्तुति ॥ ॥ दोहा ॥ श्री गिरिजापति बंदि कर चरण मध्य शिर नाय। कहत गीता राधे तुम मो पर हो सहाय॥ कविता नंदी की सवारी नाग अंगीकार धारी। नित संत सुखकारी नीलकण्ठ त्रिपुरारी हैं॥ गले मुण्डमाला भारी सर सोहै जटाधारी। बाम अंग में बिहारी गिरिजा सुतवारी हैं॥ दानी बड़े भारी शेष शारदा पुकारी। काशीपति मदनारी कर शूल च्रकधारी हैं॥ कला जाकी उजियारी लख ...

jhaankee - झांकी उमा महेश की, आठों पहर किया करूँ।

भगवान शिव की आरती | BHAKTI GYAN भगवान शिव की आरती... ॐ नमः शिवाय: | ॐ नमः शिवाय: | ॐ नमः शिवाय: | ॐ नमः शिवाय: | ॐ नमः शिवाय: भगवान शिव की पूजा के समय मन के भावों को शब्दों में व्यक्त करके भी भगवान आशुतोष को प्रसन्न किया जा सकता है। भगवान शिव की आरती से हम भगवान भोलेनाथ के चरणों में अपने स्तुति रूपी श्रद्धासुमन अर्पित कर उनका कृपा प्रसाद पा सकते हैं। ॥ झांकी ॥ झांकी उमा महेश की, आठों पहर किया करूँ। नैनो के पात्र में सुधा, भर भर के मैं पिया करूँ॥ वाराणसी का वास हो, और न कोई पास हो। गिरजापति के नाम का, सुमिरण भजन किया करूँ॥ झांकी उमा महेश की....... जयति जय महेश हे, जयति जय नन्द केश हे। जयति जय उमेश हे, प्रेम से मै जपा करूँ॥ झांकी उमा महेश की....... अम्बा कही श्रमित न हो, सेवा का भार मुझको दो। जी भर के तुम पिया करो, घोट के मैं दिया करूँ॥ झांकी उमा महेश की....... जी मै तुम्हारी है लगन, खीचते है उधर व्यसन। हरदम चलायमान हे मन, इसका उपाय क्या करूँ॥ झांकी उमा महेश की....... भिक्षा में नाथ दीजिए, सेवा में मै रहा करूँ। बेकल हु नाथ रात दिन चैन...

Sri Shiva\Rudrashtakam\Shri Rudrashtakam Stotram

श्री शिव रुद्राष्टक स्तोत्र श्री शिव रुद्राष्टक स्तोत्र... !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! भगवान शिव शंकर जी आसानी से प्रसन्न हो जाते हैं। यदि भक्त श्रद्धा पूर्वक एक लोटा जल भी अर्पित कर दे तो भी वे प्रसन्न हो जाते हैं। इसलिए उन्हें भोलेनाथ भी कहा जाता है। 'श्री शिव रुद्राष्टकम' अपने आप में अद्भुत स्तुति है। यदि कोई आपको परेशान कर रहा है तो किसी शिव मंदिर या घर में ही कुशा के आसन पर बैठकर लगातार 7 दिनों तक सुबह शाम 'रुद्राष्टकम' स्तुति का पाठ करने से भगवान शिव बड़े से बड़े शत्रुओं का नाश करते हैं और सदैव अपने भक्तों की रक्षा करते हैं। रामायण के अनुसार, मर्यादा पुरूषोत्तम भगवान श्रीराम ने रावण जैसे भयंकर शत्रु पर विजय पाने के लिए रामेशवरम में शिवलिंग की स्थापना कर रूद्राष्टकम स्तुति का श्रद्धापूर्वक पाठ किया था और परिणाम स्वरूप शिव की कृपा से रावण का अंत भी हुआ था। ॥ श्री शिव रुद्राष्टक स्तोत्र ॥ नमामीशमीशान निर्वाण रूपं, विभुं व्यापकं ब्रह्म वेदः स्वरूपम्। निजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाश माकाशवासं भज...

Mata Chamunda Devi Chalisa - नमस्कार चामुंडा माता, तीनो लोक मई मई विख्याता

चामुण्डा देवी चालीसा | माता चामुंडा आरती, मंत्र व महिमा | Bhakti Gyan चामुण्डा देवी की चालीसा... हिंदू धर्म में माँ दुर्गा को शक्ति का सर्वोच्च स्वरूप माना गया है। भारतवर्ष में कुल 51 शक्तिपीठ हैं, जिनमें से एक प्रमुख शक्तिपीठ चामुण्डा देवी मंदिर है। यह मंदिर मुख्य रूप से माता काली को समर्पित है, जो शक्ति और संहार की देवी मानी जाती हैं। पुराणों के अनुसार जब-जब धरती पर अधर्म और संकट बढ़ा है, तब-तब माता ने दानवों का संहार कर धर्म की रक्षा की है। असुर चण्ड और मुण्ड के वध के कारण ही माता का नाम चामुण्डा पड़ा। श्री चामुण्डा देवी मंदिर को चामुण्डा नंदिकेश्वर धाम के नाम से भी जाना जाता है। यह मंदिर हिमाचल प्रदेश के कांगड़ा जिले की धर्मशाला तहसील में, पालमपुर शहर से लगभग 19 किलोमीटर दूर स्थित है। यह पवित्र धाम माता दुर्गा के एक दिव्य रूप श्री चामुण्डा देवी को समर्पित है। || चालीसा || ।। दोहा ।। नीलवरण मा कालिका रहती सदा प्रचंड, दस हाथो मई ससत्रा धार देती दुस्त को दांड्ड़ । मधु केटभ संहार कर करी धर्म की जीत, मेरी भी ...

Dwadash Jyotirlinga - सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। द्वादश ज्योतिर्लिंग... हिन्दू धर्म में यह माना जाता है कि जो मनुष्य प्रतिदिन प्रात:काल और संध्या के समय इन बारह ज्योतिर्लिंगों का नाम लेता है, उसके सात जन्मों का किया हुआ पाप इन लिंगों के स्मरण मात्र से मिट जाता है। श्री द्वादश ज्योतिर्लिंग स्तोत्रम् सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोंकारममलेश्वरम्॥१॥ परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्। सेतुबंधे तु रामेशं नागेशं दारुकावने॥२॥ वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे। हिमालये तु केदारम् घुश्मेशं च शिवालये॥३॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥४॥ Related Pages: श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् चिन्तामणि षट्पदी स्तोत्र गणपतितालम् श्री कालभैरव अष्टकम् अंगना पधारो महारानी मोरी शारदा भवानी देवी भजन- इंद्राक्षी स्तोत्रम् श्री शिव प्रातः स्मरणस्तोत्रम् 12 प्रमुख ज्योतिर्लिंग राम रक्षा स्तोत्र संकटमोचन हनुमानाष्टक संस्कृत में मारुति स्तो...

Lingashtakam\Shiv\lingashtakam stotram-लिङ्गाष्टकम्

श्री लिंगाष्टकम स्तोत्र | शिव लिंगाष्टकम पाठ, अर्थ और लाभ लिंगाष्टकम् का महत्व और आध्यात्मिक लाभ... !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! लिंगाष्टकम् भगवान शिव की महिमा का वर्णन करने वाला अत्यंत पवित्र और प्रभावशाली स्तोत्र है। इसमें शिवलिंग की स्तुति अत्यंत अद्भुत और सुंदर ढंग से की गई है। यह स्तोत्र शिवभक्तों के लिए आध्यात्मिक उन्नति का मार्ग प्रशस्त करता है। शिवलिंग की दिव्य महिमा: लिंगाष्टकम् में शिवलिंग को सुगंधित पुष्पों से सुशोभित, चंदन और कुमकुम के लेप से आच्छादित और विविध मालाओं से अलंकृत बताया गया है। शिवलिंग केवल एक प्रतीक नहीं, बल्कि सृष्टि, स्थिति और संहार के परम तत्व का प्रतीक है। यह बुद्धि में वृद्धि करने वाला, मन को पवित्र करने वाला और साधक के जीवन में सकारात्मक ऊर्जा का संचार करने वाला दिव्य स्वरूप है। ॥ लिंगाष्टकम स्तोत्र ॥ ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् । रावणदर...

Suryakavach/सूर्य कवच संस्कृत में/Suryasya Kavach

सूर्य कवच | मूल संस्कृत पाठ, लाभ, मन्त्र एवं महत्व सूर्य कवच — महत्व और लाभ... सूर्य कवच एक रक्षात्मक स्तोत्र है। इसका पाठ करने से शरीर स्वस्थ रहता है और सौभाग्य की प्राप्ति होती है। सूर्य देव को जीवनशक्ति, तेज और ओज का प्रदाता माना गया है; अतः इस कवच का पाठ तन, मन और आत्मा पर सकारात्मक प्रभाव डालता है। पौराणिक महत्व: पुराणों के अनुसार, मकर संक्रांति के पावन दिन यदि इस कवच का पाठ किया जाए तो उसका फल अत्यधिक माना गया है। परंपरा यह बताती है कि इस दिन किया गया पाठ सात पीढ़ियों तक रक्षा प्रदान कर सकता है। मकर संक्रांति और उत्तरायण: मकर संक्रांति के समय सूर्या उत्तरायण होते हैं — अर्थात् सूर्य का चक्र उत्तर दिशा की ओर बढ़ना प्रारम्भ करता है। यह समय आध्यात्मिक अभ्यास, तप और साधना के लिए अत्यंत शुभ माना जाता है, इसलिए सूर्य कवच का पाठ इस दिन विशेष प्रभावकारी होता है। सूर्य कवच Play Audio श्री गणेशाय नमः शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शु...